________________
.
.
[ श्रीवीतरागस्तोत्रे लक्षाः, अष्टाविंशतिलक्षाः सुभटानाम् , सहस्रमुष्ट्राणामशीतिसहस्रा गवां, पञ्च २ शतानि गृहासभायानपात्रशकटवाहिन्यादीनाम् । षष्ठे-चातुर्मासके पत्तनपरिसरादधिकदिग्गतिनिषेधः । सप्तमे-मद्यमांसमधुम्रक्षणबहुवीजपञ्चोदुम्बरानन्तकायतपूरादिनियमः । अष्टमे-स्वाज्ञामध्ये सप्तव्यसननिषेधः । नवमे-उभयकालयोः प्रतिक्रमणम् , सामायिके गृहीते श्रीहेमसूरिपादान्विनाऽन्येन सहाजल्पनम् । दशमे-वर्षासु कटकाकरणम् । एकादशेऽष्टमीचतुर्दश्योः पौषधग्रहणम् ,कायोत्सर्गे पादलग्नस्य मर्कोटकस्य दयया स्वत्वचा सह परतःकरणम् । द्वादशे-सीदत्साधर्मिकाणां द्वासप्ततिलक्षकरमोचनम् , प्रतिवर्ष साधर्मिकोद्धारायैककोटिदीनारदानम् , पारणकदिने पर शतानामपि दृष्टिप्राप्तश्राद्धानामात्मना सह भोजनं चेत्यादिनिय. मानङ्गीकृत्य प्रभुपार्श्वे प्राक्कृतदुष्कृतप्रक्षालनाय प्रायश्चित्तं प्रार्थितवान् , तेश्च समयरहस्यं हृदि विमृश्य दत्तम् । तच्चैःचतुश्चत्वारिंशदुत्तरचतुर्दशशत १४४४ नव्यप्रासादनिर्मापणम् , पोडशशत १६०० जीर्णोद्धारविधापनम् , सप्त महायात्रा एकविंशतिर्ज्ञानकोशा इत्यादि । विशेषतो विहिताभक्ष्यभक्षणद्वात्रिंशद्दशनविशुद्धये एकस्मिन्नेव पीठे दशनसङ्ख्यप्रासादा विधाप्याः। प्रत्यहं प्रातात्रिंशत्प्रकाशाश्व 'का,' दीप्तौ, प्रकपेण काश्यन्ते-दीप्यन्ते आन्तरमलापनयनेन दशना एभिरिति प्रकाशा गुणनीया इति तं प्रतिपाद्य श्राद्धविधिप्रवृत्तिप्ररूपका द्वादश योगशास्त्रस्य, वीतरागभक्तिमया विंशतिवामी; श्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org