________________
प्रथमः प्रकाश: ]
अव० - जयति श्रीजिनो वीरः सर्वज्ञः सर्वकामदः । यस्याङ्घ्रियुगलं कल्पपादपैर्युग्मजातकम् ॥ १ ॥ नत्वा निजगुरून् सारसारस्वतविभाद्भुतान् । वीतरागस्तवान्वर्थं बालगम्यं करोम्यहम् || २ || तथाहि - पूर्वं स्वर्गसहोदरे पत्तननगरे निजसहजपराक्रमाक्रान्तराजचक्रः परमप्रभुतानुकृतशक्रो दुर्द्धरविरोधिसिन्धुरभयकरकरालकरवालो दशदिमण्डलपाखण्डमण्डनकीर्तित्रततिवितानालवाल: प्रजापाल : श्रीकुमारपालश्चतुः सागरावधि धात्रीधवतां दधाति स्म । स च कलिकाल सर्वज्ञश्वेताम्बरादिषइदर्शनाखण्डिताज्ञस्वप्रज्ञापराभूतसुरसूरि श्री हेम सूरिवचनामृतेन गलितमिथ्यात्वगरलः सरलतर श्रीजिनमार्ग प्रतिपन्नवान् । श्रीजिनोक्तनवतच्चानि श्रद्दधानः श्रीसम्यक्त्वमूलद्वाद्वशत्रतधुरां दधानः प्रथमत्रतेऽष्टादशदेशेष्वमारिप्रवर्त्तनं मारिशब्दश्रवणेsपि क्षपणकरणम् । द्वितीये - विपर्ययेणाऽसत्यवचने आचा(मा) म्लम् । तृतीये - प्रतिवर्षं द्विसप्ततिलक्षनिर्वीरधनमोचनम् । चतुर्थे धर्मप्राप्यनन्तरं पाणिग्रहणे नियमः, चातुर्मास के त्रिधा शीलपालनम्, भोपलदेव्याद्यष्टभार्यामरणे प्रधानप्रभृतिभिर्बहुकथनेऽपि पाणिग्रहणाकरणम् । पञ्चमे - षडष्टौ कोट्यः सुवर्णरूप्ययोः, दशशततोलका महार्घ्यमणिरत्नानां द्वात्रिंशत् २ सहस्रमणानि घृततैलयोः, त्रीणि २ लक्षाणि शाल्यादिधान्यमृटकानामेकादश शतानि गजानाम्, पञ्चाशत्सहस्रा रथानामेकादशलक्षास्तुरङ्गमानाम्,
|
सर्वसैन्यमीलनेऽष्टादश
Jain Education International
For Private & Personal Use Only
?
www.jainelibrary.org