SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ] चलमपूनर्भवं परमपदमध्यासीनो ज्ञानदर्शनोपयुक्तः केवलात्मैव । साम्प्रतं स एव विशिष्यते किं विशिष्टः परात्मेत्याह-परं ज्योतिः । अप्रतिपातित्वेन लोकालोकप्रकाशकत्वेन च परं सर्वोत्कृष्ट चित्स्वरूपं ज्योतिर्यस्येति ज्योतिर्योतिष्मतोरभेदात् स एव परंज्योतिः । परत्वं चास्य मतिश्रुतावधिमनःपर्यायलक्षणचिदंशचतुष्टयापेक्षं, प्रतिपातित्वेनाल्पविषयत्वेन च मत्यादीनामनीदृशत्वात् यदि वा रवीन्दुविद्युन्मणिप्रमुखे निखिलेऽपि ज्योतिवर्गे यः परमुत्कृष्टं ज्योतिरिति स परंज्योतिः । यश्चैवंविधः परात्मा स श्रद्धेयः श्रद्धाविषयमवतारणीय इत्युत्तरपदेन योगः । किमुक्तं भवति । किल यद्यप्यघातिकर्मणामर्हदादीनामध्यक्षे तस्मिस्तत्प्रत्ययेनैव श्रद्धा विधेयैव । न चानुपकृतपरानुग्रहकृतां क्षीणरागद्वेषमोहानामर्हदादीनां वितथवादित्वमतः किमश्रद्धेयं परमात्मनः । पुनः परमरहस्यभूतं परमात्मानमेव विशिनष्टि । परमः परमेष्ठिनाम्। परमे चिदानन्दरूपे ब्रह्मणि तिष्ठन्तीति परमेष्ठिनस्ते चार्हदाचार्योपाध्यायसाधव एव, तेषां मध्ये परमः प्रकृष्टः सिद्धरूपो यः परमेष्ठी, अहंदादिपरमेष्ठिचतुष्टयस्य चामुक्ततावस्थामधिकृत्य सिद्धस्य पञ्चमपरमेष्ठिनः परमत्वम् । मुक्तास्तु सर्वेऽप्येकरूपा एव । स चैवंविधः परमात्मा भगवांस्तदेकतानमनोभिर्येयस्तत्स्वरूप्राप्तये सततमनुस्मरणीय इति उत्तरपदेन सम्बन्धः । प्रथमान्तं पदमभिधाय द्वितीयान्तमाह । यं च परमात्मानमणिमाद्यष्टमहासिद्धिप्रसिद्धिमहसो मुनयोऽप्यामनन्ति-तत्स्वरूपोपलब्धये संततमभ्यस्यन्ति। किम्भूतम् ?, तमसः परस्ताद् वर्तमानम् , Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy