________________
२३६
[ श्रीवीतरागस्तोत्रे थता छतां, विधिपूर्वक तेनी आराधना करनारने फळ प्राप्त थाय छे. ते ज प्रमाणे वीतराग-परमात्मानी विधिपूर्वक आराधना करनारने अवश्य फळ प्राप्त थाय छे.) (३) ___ अव० अप्र०-रागद्वेषाभावेनाप्रसन्नाद्वीतरागात्कथं फलं मोक्षादि प्राप्यम् ?, यतः सुप्रसन्न एव प्रभुः फलं दत्ते, प्रसत्तिश्च रागलणक्षम् , हे वीतराग ! एतत्परेषां वचः असङ्गतमनुचितम् । यतश्चिन्तामणिकामघटादयो विचेतना अपि विशेषचैतन्यरहितत्वेनाप्रसन्ना अपि विधिवदाराधिताः किं न फलन्ति ?, अपि तु फलन्त्येव । एवं वीतरागोऽपि फलदः ॥३॥
वि०-हे विद्वन्मानिनः ! यदेतद्भवद्भिरुदीर्यते यद्-अस्माद्वीतरागत्वेनैव स्तुतिशतैरप्यप्रसन्नाद् भवद्भिः कथमीप्सितं फलं प्राप्यं लभ्यमिति !, तदसङ्गतम् , तदिदं भवदुदीरितं वचः सर्वथैवा. सङ्गतमयौक्तिकम् । किमित्याह-न खल्वयं नियमो यत्प्रसन्न एव सेव्यः सेवाफलं ददातीति दृष्टान्तेन विघटयति-चिन्तेत्यादि, लोके हि ये किल चिन्तामणिमहौषधिप्रभृतयस्तद्विशेषविद्भिः केनाप्यभिलाषेण प्रसाधन्ते ते विधिवदाराधिताः किं वाञ्छितफलैर्न फलन्ति !, अपि तु फलन्त्येव । किं विशिष्टाः ?, विचेतना विशिष्टचैतन्यशून्या अपि, प्रसादश्च विशिष्टचैतन्याविनाभूतः । अतश्चिन्तामण्यादीनां चैतन्यविशेषशून्यानामप्याराधनं यदि न निष्फलं तदस्माकं वीतरागस्यापि विज्ञानराशेर्भगवतः समाराधनं कथमिवाफलमितियत्किञ्चिदेतत् ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org