________________
एकोनविंशतिः प्रकाशः ]
२३५ तत्समक्षं कांश्चिदात्मप्रतिकूलान् कोपतः क्रोधोबोधात् शापवधादिभिनिगृह्य । तथा कांश्चिदात्मनोऽनुकूलांस्तुष्ट्या प्रसादेन वरादिप्र. दानादनुगृह्य। किं विशिष्टैः परैः ।, प्रलम्भनपरैः-वञ्चनप्रपञ्चचतुरैः। किमुक्तं भवति ?, किल मृदुधियो ह्यायतिमनालोच्य तात्कालिकी तेषां निग्रहानुग्रहशक्तिमनुचिन्त्य भीत्या प्रीत्या च तदनुवर्त्तनपराः पतन्त्येवागाधे संसृतिपाथोधौ, त्वया च विश्ववत्सलेनालङ्कते चेतसि न प्रभवति तेषां प्रतारणेति त्वयि चित्तवासिनि कृतकृत्य एवाहम् ॥२॥
ननु यद्येकान्ततो वीतराग एवायं भवदाप्तस्तदा निरन्तरप्रयुक्तैरपि स्तुतिस्तोमैन प्रसादभाग्भविष्यति । यदि च स्तुतितोषा(स्तोमा)त् प्रसीदति तदा नियतं न वीतरागः, अप्रसन्नश्च कीहक्फलं दास्यतीति गलतालुशोषफल एवायं स्तुतिवादस्तस्मिन् भवतामिति प्रलापिनः परान् प्राह
अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् ? । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः?॥३॥
हे नाथ ! कदी पण प्रसन्न नहिं थनारा एवा आपनी पासेथी फळ केवी रीते मेळवq ?, एम कहेवू ए असंगत छे; कारण के चिंतामणिरत्नादि विशिष्ट चेतना रहित होवा छतां शुं फलिभूत थतां नथी ?, अवश्य थाय छे. (विशिष्ट चेतना रहित चिंतामणि आदि पोते कोईना उपर प्रसन्न नथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org