________________
२३२
[ श्रीवीतरागस्तोत्रे एतदेव स्पष्टयन्नुपसंहरतिक्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मृदुधियां, वीतराग ! कथञ्चन ॥१०॥
हे वीतराग! आ जगत क्रोध, लोभ अने भय. थी आक्रान्त-व्याप्त छे, ज्यारे आप क्रोधादिथी रहित होवाना कारणे विलक्षण छो; तेथी मृदुकोमल-मंद बुद्धिवाळा बहिर्मुख पुरुषोने आप कोई पण प्रकारे गोचर-प्रत्यक्ष थई शकता नथी. (१०)
अव० क्रोध०-हे वीतराग! इदं जगत् सुरासुरनररूपं क्रोधलोभभयोपद्रुतमस्ति तेनास्मजगतो विसदृशस्त्वं कथञ्चन केनापि प्रकारेण मृदुधियां जिनशासनबहिर्मुखाणां न गोचरोऽसि परोक्षोऽसीत्यर्थः ॥ १० ॥
इति अष्टादशप्रकाशस्यावचूर्णिः । वि०-क्रोधलोभभयादिभिः प्रतीतैरान्तरारातिभिरिदं जगदाक्रान्तम् । भगवांस्त्वस्माजगतः क्रोधादिभिरनाक्रान्तत्वेनैव विलक्षणः-विसदृशः । अत एव वीतरागत्वेनैव कथञ्चन केनाप्युपायेन मृदुधियां कोमलप्रज्ञानां बहिर्मुखाणामगोचरः, तदनुगृहीतैरन्तर्मुखैरेव तस्योपलभ्यत्वादिति ॥ १० ॥ इति श्रीवीतरागस्तोत्रे अष्टादशस्य कठोरोक्तिस्तवस्य पदयोजना ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org