SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २३१ अष्टादशः प्रकाशः ] हे स्वामिन् ! सर्व संसारी जीवोना स्वरूपथी जे काई विलक्षण स्वरूप आ जगतमां प्रतीत थाय, ते ज आपनुं लक्षण छे, एम बुद्धिमान पुरुषो परीक्षा करो. (९) अव० यदे०-हे वीतराग ! सर्वे संसारिणो ये जन्तवो जीवास्तेषां रूपं स्वरूपं तस्माद्विलक्षणं विसदृशं यदेव यत्किश्चित् , कृतधियो विद्वांसः परीक्षन्तां-विचारयन्तां तदेव तव लक्षणं देवत्वाभिज्ञानमस्तु ।। ९॥ वि०—हे स्वामिन् ! यदेव सर्वसंसारिजन्तुरूपेभ्यः समग्रभवस्थशरीरशरीरेभ्यो लोकोत्तरत्वेन विसदृशम् , कृतधियो विद्वांसस्तदेव तव लक्षणं परीक्षन्ताम् । विमुक्तं भवति ?, किल यानि परैः पक्षिपशुवाहनादीनि देवचिह्नत्वेनोदीयन्ते तानि सर्वसंसारिजन्तुसाधारणानि, असाधारणगुणैश्च देवत्वमुपपद्यते । अत एव भगवान् विमुक्तसर्वसङ्गत्वेन न पक्षिपशुप्रभृतिष्वासीनदेहस्तत एव मुक्तः । वाहनाधीनतनवस्तु सपरिग्रहत्वेन संसारिण एव । तथा सर्वोत्तमसमचतुरस्रसंस्थान एव भगवान् , न तु नेत्रादिविकृतिमान् , प्रोषितद्वेषत्वेन च शूलादिशस्त्ररहितः, विगतरागत्वेन च नागनालिङ्गिततनुः, अगर्हणीयचरितत्वेन च विश्वविश्वानन्ददायी, परमसमभावभावितत्वेन च प्रकोपप्रसादादिभिर्न विडम्बितः, निष्ठितार्थत्वेन च न जगत्सर्गादिव्यग्रः, निर्मोहत्वेन च न लास्यहास्यादिभिरुपप्लुतः । पूर्वोदितस्वरूपाश्च परे । एवं विधं च यदिदं-'समस्तसंसारिरूपविलक्षणत्वं तदेव तव लक्षणमिति ॥९॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy