________________
२३०
[ श्रीवीतरागस्तोत्रे पक्षकक्षीकारेण किमपि परुषप्रायमभिधाय भूयः स्वभावोक्ति व्यनक्तिअथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृसमेतेन, वैयात्येन जगत्प्रभो! ॥८॥ ___ अथवा हे जगत्प्रभु! मन्द-बुद्धिवाळा परीक्षकनी परीक्षाओवडे सयु, तेमज मारे पण आ जातिना परीक्षा करवाना वैयावृत्य-हठाग्रहवडे सयु. (८)
अव० अथ०-हे वीतराग ! अथवाऽल्पमतयो ये परीक्षकास्तेषां परीक्षणैरविचारणैरलं सृतम् । हे जगत्प्रभो! ममाप्येतेन वैयात्येन त्वत्परीक्षाधाष्ठर्थेन-कृतं-पर्याप्तम् ।। ८॥
वि०-अथवेति पूर्वोपक्षिप्तार्थोपसंहारे । हे जगद्गुरो ! भुवनमहनीय ! अभीभिः पूर्वोदितैर्मन्दबुद्धिपरीक्षकपरीक्षणैर्निर्विचारविचारकविचारप्रकारैरलं-पर्याप्तम्, सर्वथैव त्वय्यनुपपन्नत्वात् तेषाम् । तथा ममाप्येतेन पूर्वोदितेन प्राकृतजनोचितेन वैयात्येन परीक्षावैदग्ध्यधाष्टर्येन कृतं-पर्याप्तम् , मनसाप्येवमसत्प्रलापस्य त्वयि चिन्तयितुमनुचितत्वात् ।। ८ ।।
ननु यदि पूर्वोदितानि देवलक्षणानि न तथा क्षोदक्षमाणि तत् किमन्यत् तदुपलक्षणाय लक्षणान्तरं मृग्यमित्याहयदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ ९॥ १ ०गुरो ! के० ज्ञा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org