________________
: १८ :
विशे आशीःस्तवे च त्वत्पादरजःकणा निवसन्तां मूर्ध्नि, मम दृशौ क्षालयेतां मलमनर्हेक्षणभवं, लुठनैरस्तु किणावलिः प्रायश्चित्तमसेव्यप्रणामस्य, रोमाञ्चकण्टका अमदर्शनवासनां तुदन्तु त्वदास्यपीयूषपानादस्तु मदीयलोचनाम्भोजानां निर्निमेषता, नेत्रे त्वदीयवदनलासिनी, करौ त्वदुपास्तितत्परौ, श्रोत्रे त्वद्गुणग्रहणपरे भवतः सदा, स्वस्त्यस्त्वेतस्यै वाण्यै या तत्रभवद्गुणावगाहप्रत्यप्रोमिति स्वीक्रियस्व यद्दासः प्रेष्यः सेवकः किङ्करोऽहन्ते इति, इत्येवमनूनप्रतिभाप्राग्भारवर्णनातिगं जगद्गुरुं वर्णयामासुस्तत्र भव. न्तोऽत्रेति विज्ञायते ॥ २० ॥
एतत्पर्यवसाने यदुत न लब्धचरा आदर्शा अस्यानेके न च शुद्धाः परमावश्यकं श्रद्धापीयूषपीनानां श्राद्धानामेतस्य पठनमिति मुद्रणोपक्रमोद्भव आगसि मिथ्यादुष्कृतं प्रार्थयते सकलश्रमणसङ्घसेवकः आनन्दाब्धिरस्तु च लेखकपाठकमुद्रापकाध्येतृणां, श्रेयो निःश्रेयसपर्यवसानं बोधिबीजावाप्तिद्वारेति ।
सिन्ध्वृत्वकेन्दुमानेऽन्दे, (१९६७)पौषे मास्यसिते दले, पञ्चम्यां सुरतद्रङ्गे, श्रेयसेऽस्तु लिपीकृतः ॥ १।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org