________________
। १७ :
भवत्पादयोस्त्वत्प्रासादलब्धेयती भूमिर्मयेदानी मोपेक्षिष्ठाः; कृपापरस्त्वं पात्रं चासाधारणं कृपाया अहं, त्वमतो भव युक्तानुष्ठानप्रेरक इति ॥ १६ ॥
___ सप्तदशे शरणस्तवे कृतस्वकृतदुष्कृतगहाँसुकृतानुमोदनः शरणं यामि, भवतु मिथ्यादुष्कृतं मनोवाकायजानां कृतादिभेदानां दुष्कृतानामपुनःक्रियान्वितं रत्नत्रितयगोचरमनुमन्येऽहं सुकृतमहदादीनामहत्त्वादिकमनुमोदयामि, त्वां त्वत्फलभूतान्सिद्धास्त्वच्छासनरतान्मुनीस्त्वच्छासनं च शरणं प्रपद्ये, सर्वान्सत्त्वाक्षमयामि क्षाम्यन्तु च तेऽस्तु च मैत्री तेषु आपरमपदावाप्तेर्भव शरणं ममेति तेनुः शरणक्रियामतथामवितथवादाः ॥ १७ ॥
अष्टादशे कठोरस्तवे शेषापरदेवलक्षण्यं क्रोधलोभमयाक्रान्तजगद्वैलक्षण्यमेव प्रभोर्लक्षणं कृतलक्षणा निरचैषुः कृतलक्षणतया परं नैतत्संसारकाच कामलिपरिगतानामसुमतामायाति यथार्ह श्रद्धानगोचरे विना सम्यक्त्वाञ्जनम् ॥ १८ ॥ ___ एकोनविंशे आज्ञास्तवे पालनमेवाज्ञाया भगवद्ध्यानं निःश्रे. यस्करं निग्रहानुग्रहकर्तणां परेषां वर्धिन्येव संसारारण्यस्याज्ञा, विगतरागाणामाराधनमचिन्त्यमण्यादितो भवत्येवाभीष्टदं, सपर्याया अपि पराज्ञाराधना, तदाराधनविराधन निबन्धनत्वान्निर्वाणानिर्वाणयोः सा चाश्रवसंवरयोहयोपादेयतांरूपैव, तदाराधकाश्च निर्वाणपथनिभृता अभूवन्भवन्ति भविष्यन्ति ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org