________________
: १६ :
कारिणि तथा रागो यथा न परेषामुपकारिणि सुख्यहं दुख्यहं वेति ज्ञानाभावकृत्समाधिाता ध्यानं ध्येयमित्येतत्रयस्यैक्यमिति च विलक्षणमहिमा जगद्गुरूणामेवेति जगदुः सूरयः ॥ १४ ॥
पञ्चदशे भक्तिस्तवे उदात्तशान्तमुद्रया जगत्रयीजयस्त्वदन. गीकारः चिन्तामणिच्यवं सुधावैययं करोति विपर्यस्तमतीनां, त्वयि यो धारयति रूक्षां दृष्टिं तं न चेदन्तरा तत्रभवदुपदिष्टा कृपा स्यादवक्ष्यत् साक्षाद्भूय कृशानुः भस्मसात्करोत्विति, त्वदविरुद्धशासनापरहिंसाद्यहितकर्मपथोपदेशप्रवणशासनयोः साम्यं स्यात्तेषामेव येषाममृतविषयोस्तत् , त्वदपलापिनामनेडमूकता श्रेय. स्करी, मन्दयायिताया उन्मार्गप्रवृत्तस्य श्रेयस्त्वात् , तत्र भवच्छासनामृतरससिक्तानां नमस्कार्यता, त्वचरणपूता भूरपि भव्यभा. वुकलम्भयित्रीति नमोऽस्तु तस्यायपि, त्वद्गुणमकरन्दपानलम्पटत्वेन प्रशस्तं मे जनुर्ज्ञानादिधनलब्धा कृतकृत्यश्चास्म्यहमिति भक्तिविस्मितमानसा मीमांसितवन्तो मीमांसामांसलम् ॥ १५ ॥
षोडशे आत्मगस्तिवेऽविगर्हितात्मानः समाहितात्मनां स्मरणीयां समाचख्युरेकतः परमगुरुप्रणीतप्रवचनपीयूषपानोद्गता परमपथप्रवीणतान्यतश्चानादिकालीना रागद्वेषावेगजाता मूर्छा, रागगरलमूर्छितानामवाच्यकर्मकारिता, क्षणं सक्तो मुक्तः क्रुद्धः क्षमीत्यसाधारणा कारिता कपिचेष्टा मोहमदिरया, प्राप्यापि बोधि मनोवाक्कायदुश्चेष्टान्वितः, त्वच्छरणगतोऽप्यभिभूये मोहादिभिरपहारेण दुर्लभलाभरत्नत्रितयस्य, स्वमेव तारको मम इति लग्नोऽस्मि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org