SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ : १५ : देहदानानुपार्ण्य सुकृतसङ्गतिं, भीमकान्तगुणवत्त्वेन साम्राज्य साधनेsपि विगतरागद्वेषतां, देवत्वेऽपि सकलगुणनिलयतां, महीयसां महतां महनीयतां महात्मनां गुणवहां यथार्थतया ॥ ११ ॥ द्वादशे वैराग्यस्तवे आजन्मवैराग्यवत्तां सुखकारणविषयक - वैराग्यवत्तां विवेकशातनिबन्धनमोक्षस्थितवैराग्यतां नित्यविरक्ततां मरुन्नरेन्द्रध्युपभोगकालरत्यभावं सुखदुःखभवमोक्षविषयक - दासीन्यं परतीर्थिकाभ्युपगताराध्याङ्गीकृतदुःखगर्भमोह गर्भानालीढज्ञानगर्भ सगर्भतां सततसम्यगौदासीन्येऽपि विश्वविश्वोपकारितां चाविश्चक्रुः कोविदचक्रचूडामणयः ।। १२ ।। त्रयोदशे हेतुनिरासस्तवे ( विरोधस्तवे ) अनाहूतः सहायोSकारणो sarरणो वत्सलोsनभ्यर्थितः साधुरसम्बन्धो बान्धवोऽनक्तः स्निग्धोऽमृष्ट उज्जवलोsधौतोऽमलशीलोऽचण्डो वीरवृत्तिः, शमी समवृत्तिः कर्मकुटिलकण्टककुट्टकोऽभवो महेशोऽगदो नारायणोsराजसो ब्रह्मानुक्षितः फलोदयोऽनिपातो गरीयान सङ्कल्पितकल्पदुरसङ्गो जनेशो, निर्ममः कृपात्मा, मध्यस्थो जगत्राताऽगोपितो रत्ननिधिरवृतः कल्पोऽचिन्त्य श्चिन्तामणिर्निखिलेऽपि जगति नान्यो वीतरागाद्भवतोsपर इति प्राचख्युः प्रख्यातख्यातयो महात्मानः ॥ १३ चतुर्दशे योगसिद्धिस्तवे लथत्वेन मनोवाक्कायचेष्टा समाहाराम्मनः शल्यवियोगः, करणानां संवरप्रचाराभावेन जयोऽष्टाङ्गयोगस्य बाल्यात्सात्मभावश्चिरपरिचितेषु विषयेषु विरागः, sesपिलोलीभावो हिंसकानामुपकार आश्रितानामुपेक्षाप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy