________________
२२८
| श्रीवीतरागस्तोत्रे
तदेवं सर्वदेवेभ्यः, सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः, कथं नाम परीक्षकैः ? ॥६॥
ते कारणथी हे भगवन् ! ए रीते आप सर्व देवोथी सर्व प्रकारे विलक्षण - विपरीत लक्षणवाळा छो, तेथी परीक्षक लोकोए आपने देव तरीके केवी रीते स्थापन करवा १ ( ६ )
--
अव० तदे० - हे वीतराग ! तत्तस्मात्कारणाद् ब्रह्मा चतुर्वक्त्रो हंसयानो जपमालाकरो गावित्री (गायत्री) सावित्रीश्लिष्ट रम्भादिदर्शनार्थकृतपञ्चमुखो जगञ्जनकः १ । विष्णुर्गरुडस्थश्चतुर्भुजश्चापचक्रादिकरो लक्ष्म्यालिङ्गितो रुक्मिणीहरो दैत्यघ्नो वृन्दावने कृतस्त्रीरूपो जगत्पालकः २ । हरो हास्यलास्यकरो वृषवाहनो ब्रह्मशिरश्छिदर्घाङ्गस्थभवानीक स्त्रिनेत्रो जगत्संहारकः ३ । इत्येवंप्रकारेण सर्वलौकिकदेवेभ्यः सर्वथा शास्त्रादिप्रकारैर्विलक्षणो विसदृशस्त्वं देवत्वेन हृदि देवतया नाम इति कोमलामन्त्रणे परीक्षकैः - प्रेक्षावद्भिः कथं केन लक्षणेन प्रतिष्ठाप्यः - स्थाप्यः १ ।। ६ ।।
वि०- तत्तस्मात् कारणात् हे भगवन् ! एवं पूर्वोक्तप्रकारेण सर्वेभ्योऽपि हरिहरादिदेवेभ्यः, सर्वथा सर्वैरप्रि चिह्नस्त्वं विलक्षणो विसदृशः । एवं च सति परीक्षकैर्देवत्वेन 'देवोऽयम्' इतिबुद्ध्या कथं प्रतिष्ठाप्यः ?, केन प्रकारेण हृदि व्यवस्थाप्य ? इति ।। ६ । एतदेव दृष्टान्तेन स्पष्टयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org