________________
अष्टादशः प्रकाशः ]
૨૨૭
पबधादिभिर्विडम्बयन्ति कदाचिच्च शिरःकमलोपनयनतीव्रतपःप्रणिधानादिभिःप्रसन्न मनसस्तानेव वरप्रदानादिप्रसादैरनुगृह्य भूयो विडम्बयन्ति । त्वं तु न तथा ॥ ४ ॥
तथान जगज्जननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥
हे नाथ ! अन्य देवोनी जेम जगतने उत्पन्न करवामां, स्थिर करवामां के विनाश करवामां आपे आदर वताव्यो नथी,तेमज नट-विटने उचित नृत्य, हास्य अने गीतादि चेष्टाओवडे आपे आपनी स्थितिने उपद्रववाळी करी नथी. (५)
अव० न जग-जगतो जननपालनविनाशनकृतो. द्यमस्त्वं नासि । लास्य-नृत्तं, हास्य-हसनं, गीत-स्मरोद्दीपकाः शब्दरचनाविशेषास्तदादयो ये विप्लवाः नटविटोचिता विलासास्तैरुपप्लुतोपद्रुता स्थितिर्मुद्रा यस्य स ईदृशोऽपि नासि॥५॥
वि० ते ह्यस्य जगतश्चराचरस्यापि जनने स्थेमनि विनाशे च विहितादराः, किल कश्चिजगन्ति सृजत्यपरः परिपालयत्यन्यो विनाशयतीति, त्वं तु तत्राप्युदासीन एव । तथा ते हि लास्यहास्यगीतादिभिर्नृत्यहसितगेयप्रभृतिभिर्विप्लवैर्नटविटोचितैश्चेष्टितैरुपप्लुतस्थितयः । त्वं पुनः परप्रस्तुतेप्वप्यमीषु विलोकनेऽपि तन्द्रालरिव ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org