________________
सप्तदशः प्रकाशः ]
२२१
समेति, न वाप्येनं तत्र गच्छन्तमनुगच्छति, तस्मात् पृथग्भूतमेवे. दमात्मनः । एवं च सत्यहं द्रव्यतः सपरिच्छदोऽपि भावत एक एव । न चैतेषु खकार्यतात्पर्यवस्तुबान्धवादिषु कश्चिन्मम सम्बन्धी । न चाहमपि स्वकृत(कर्म)फलोपभोक्ता अमीषां सम्बन्धी। नन्वेवमेकान्तेनैककस्य तव महदैन्यमित्याशङ्कयाह-न च मम त्वदंहिशरणस्थस्य प्रतिपन्नत्वच्चरणशरणस्य किञ्चन खल्पमात्रमपि दैन्यं-दीनता, प्रत्युत आत्मारामस्य परमं स्वातन्त्र्यसुखमेव ॥ ७ ॥
न च मत्पालनपरिश्रमोऽपि स्वामिनश्चिरकालभावीति दर्शयन्नाहयावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम् । तावन्मयि शरणत्वं, मा मुचः शरणं श्रिते ॥८॥
हे विश्ववत्सल ! आपना प्रभावथी मळनारी उत्कृष्ट पदवी-मुक्तिस्थान मने प्राप्त न थाय त्यां सुधी आपना शरणे आवेला मारा उपर शरण्यपणाने-शरणने उचित पालकपणाने मूकशो नहि. (८)
अव० याव०-हे वीतराग। अहं त्वदनुभावजां त्वत्प्रसादसम्भवां परां प्रकृष्टां पदवीं मुक्तिलक्षणां यावन्नासाद. यामि तावत् शरणगते मयि शरण्यत्वं शरणागतवत्सलतां मा मुच:-मा त्यज ॥ ८॥
इति सप्तदशप्रकाशस्यावचूर्णिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org