________________
२२०
[ श्रीवीतरागस्तोत्रे वि० हे क्षमाप्रधान ! अहं सर्वानेकेन्द्रियादीन् पञ्चेन्द्रियपर्यवसानान् शत्रुमित्रदृष्टादृष्टपरिचितापरिचितभेदान् सत्त्वान् प्राणिनः, स्वापराधस्वीकारेण क्षमयामि-क्षमा ग्राहयाभि, तेऽपि सत्त्वा मयि विषये कलुषतां विमुच्य क्षाम्यन्तु तितिक्षासुमनसो भवन्तु, एवं च सति तेषु सर्वेष्वपि विषये मम मैत्री पूर्वोदितस्वरूपा अस्तु । किं विशिष्टस्य मम ?, त्वदेकशरणस्मरणमात्रशरणस्य ॥ ६॥
एवं सत्त्वक्षामणां विधाय ममत्वपरिहारार्थमेकत्वभावनां भावयन्नाहएकोऽहं नास्ति मे कश्चिन्नचाहमपि कस्यचित्। त्वदघिशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥
हे नाथ ! हुं एकलो छु, मारुं कोई नथी अने हुं पण कोईनो नथी; छतां पण आपना चरणना शरणमा रहेला मने कांई पण दीनता नथी. (७) . अव० एको०-हे वीतराग ! अहमेकाकी पितृभ्रातृपुत्रशिष्यादिषु निर्ममत्वान्मम नास्ति कश्चित् । अहमपि कस्यचित्कस्यापि सम्बन्धी नास्मि । एवं सति स्वसेवकस्य दैन्यं नावधार्यमित्याहुः । त्वदं० तव चरणशरणस्थितस्य मम दैन्यं किञ्चन नास्ति ॥ ७॥
वि०-हे विश्वजनीन ! यदेतत् कलत्रपुत्रधनधान्यादि बहिमुखैरात्मीयत्वेन व्यपदिश्यते तदपि न तावत्परभवादात्मना समं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org