________________
सप्तदशः प्रकाशः । मलपटलनिगलनलघुभूतत्वेन लोकाग्रगतान् , किं विशिष्टान् ?, त्वस्फलभूतान् , अर्हताम् हि सिद्धत्वमेव फलम् , तथा त्वत्सम्बन्धि कुवासनापाशविशसनं यच्छासनं तत्र रतानासक्तमनसो मुनीन्-मुमुथुन् , तथा अपारसंसारपारावारपरपारप्रापणयानपात्रप्रतिमं त्वच्छासनं च शरणं प्रतिपन्नः संश्रितोऽस्मि । कथं ?, भावतो भावशुद्ध्या न तु परोपरोधादिना, भावं विना कृतं हि जिनशासनाद्यनुसरणं व्यापन्नदर्शनानामिवाफलं अवम फलं वेति ॥ ५॥ ___ एवं दुष्कृतगर्हासुकृतानुमोदनशरणगमनानि विधाय सत्त्वक्षामणामाहक्षमयामि सर्वान्सत्त्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥ __हे नाथ ! सर्व प्राणीओने हुँ खमा छ-क्षमा
आपुं छं. सर्व प्राणीओ मने खमावो-मारा उपरनी कलुषताने तजीने क्षमा आपो. आपना ज एक शरणने प्राप्त थयेला मने ते सर्वने विषे मैत्री-मित्रभाव-हितबुद्धि हो. (६) ___ अव० क्षम-हे वीतराग ! सर्वान् चतुरशीतिलक्षजीवयोनिगतान्जीवानहं क्षमयामि-क्रोधोपशमेन निर्वापयामि, सर्वे ते मयि-मद्विषये क्षाम्यन्तु क्रोधं त्यजन्तु तेषु निखिलेषु त्वदेकशरणस्य मम मैत्री हितबुद्धिरस्तु ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org