________________
२१८
[ श्रीवीतरागस्तोत्रे
तामहत्त्वम्, सिद्धानां सिद्धत्वम्, आचार्याणां पञ्चविधाचारचतुरत्वम्, उपाध्यायानां समयसूत्रोपदेशकत्वम् साधूनां रत्नत्रयसाधकत्वम्, इत्यादिको यो गुणस्तमहं सर्वमशेषमप्यनुमोदयामि । गुणिगुणानुमोदनं वेतनमनश्वरपथपाथेयमतस्तेषां महात्मनां पुण्यकीर्त्तनानामहमपि गुणाननुमोदयामि || ४ ||
"
एवं दुष्कृतगर्हासुकृतानुमोदने विधाय प्रस्तुतं शरणगमनमाहत्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥५॥
हे भगवन् ! भाव अरिहंत एवा आपनुं, आपना फलभूत (अरिहंतोनुं फळ सिद्ध छे) सर्व कर्मश्री मुक्त थयेला अने लोकना अग्रभाग उपर रहेला सिद्ध-भगवंतोनुं, आपना शासनमां रक्त थयेला मुनिवरोनुं अने आपना शासननुं शरण में भावी स्वीकार्य छे. (५)
अव० त्वां त्व० - हे वीतराग ! त्वां त्वत्फलभूताँस्त्वदनुष्ठानफलरूपान्मोक्षप्राप्तान् सिद्धांस्त्वदाचारचतुरानृपीन् त्वत्प्रवचनं चाहं भावतो हृदयशुद्धितः शरणं प्रतिपन्नोऽस्मि - श्रितोऽस्मि ॥ ५ ॥
वि०-हे भगवन् ! अहमेतदेतच्छरणं प्रपन्नोऽस्मि । किं तदित्याह - त्वां भावार्हद्रूपं भवन्तम्, तथा सिद्धान् सकलकर्म्म -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org