________________
सप्तदशः प्रकाशः ]
२१७
ऽहं ?, मार्गमात्रानुसार्यपि ज्ञानादियुक्तमार्गमात्रप्रविष्टोऽपि अयमाशयः 'किल ज्ञानादयो हि यदैव सम्यगासेविताः स्युस्तदैवानुमोदनेन पुण्योपचयं कुर्युः, अहं तु रत्नत्रयमार्गानुसार्येव न तु यथोक्तकारी, तथाकृते हि मुक्ततैव स्यात्, तथापि यदल्पमपि ज्ञानादिगोचरं सुकृतं कृतं तदप्यनुमोदयामीति' । मार्गमात्रानुसार्यपीति सुकृतविशेषणं वा ॥ ३॥
पुनः सुकृतानुमोदनमाह - सर्वेषामर्हदादीनां, यो योऽत्त्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ||४||
अरिहंत, सिद्ध, आचार्य, उपाध्याय अने साधुओने विषे जे जे अरिहंतपणुं, सिद्धपणुं, पंचाचारना पालनमां प्रवीणपणुं, सूत्रोनुं उपदेशकपणुं अने रत्नत्रयीनुं साधकपणुं विगेरे जे जे गुणो छे ते ते सर्व गुणोनी हुं अनुमोदना करूं छं. ( ४ )
अव० सर्वे० - हे वीतराग ! सर्वेषामर्हत्सिद्धाचार्योंपाध्याय साधुश्राद्धानां यो योऽर्हत्व सिद्धत्वाध्यापनादिको गुणोऽस्ति तं तमहमनुमन्ये सकलं तेषां महामहिम्नाम् ॥ ४ ॥
वि०- सर्वेषां नामस्थापनाद्रव्यभावभेदानां अतीतवर्त्तमानानागतरूपाणां सर्वास्वपि कर्मभूमिषु समुत्पन्नानामर्हदादीनां अर्ह - सिद्धाचार्योपाध्याय साधूनां यो योऽर्हत्त्वादिको गुणः, यथा - अर्ह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org