________________
२१६
[ श्रीवीतरागस्तोत्रे वि०-हे भगवन् ! मनोवाकायजे मनोवचनतनुसमुद्भवे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे पापे-कल्मषे कृतानुमतिकारितैः करणकारणानुमतिभिर्यन्मे पुराकृतं दुष्कृतं-दुष्कर्म तत्तवाचिन्त्यमहिम्नो माहात्म्यात् मिथ्या-मुधास्तु कृतमप्यकृतमिव जायताम् , कथम् ?, अपुनःक्रिययान्वितं अपुनःकरणेन युक्तम् । किमुक्तं भवति ?, किल यस्य हि पापस्य मिथ्यादुष्कृतरूपं प्रायश्चित्तमुपातं तद्यदि भूयोऽपि विधीयते तदा तन्मिथ्यादुष्कृतं कुम्भकृन्मिथ्यादुष्कृतमिव वृथैव स्यादित्यपुनःक्रिययेत्युक्तम् ॥ २ ॥
सुकृतानुमोदनमाहयत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥ ३॥ ___ हे नाथ ! रत्नत्रयीना मार्गने मात्र अनुसरवावाळु एवं पण जे कांई सुकृत में कयु होय, ते सर्वनी हुं अनुमोदना करूं छु. (३) _____ अव० यत्कृतं०-हे वीतराग! यद् ज्ञानादिविषयं किञ्चित्सुकृतं पुण्यं सदाचारो विहितस्तनिखिलमहमनुमोदयामि । मार्ग० त्वन्मतमात्रानुसार्येव नत्वन्यत् ॥३॥
वि०-हे स्वामिन् ! यन्मया तथाविधशुभसामग्रीसंयोगेन किञ्चिदल्पमपि सुकृतं रत्नत्रितयगोचरं ज्ञानदर्शनचारित्रानुगतं कृतमुपार्जितं तत्सर्वमहमनुमन्ये सप्रमोदमनुमोदयामि, किं विशिष्टो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org