________________
सप्तदशः प्रकाशः]
२१५ - वि०-हे नाथ ! योगक्षेमकारिन् ! अहं त्वचरणौ शरणं यामि, किं कुर्वन् ?, स्वकृतं दुष्कृतं गर्हन् स्वयमात्मनानादौ संसारे मिथ्यात्वादिबन्धहेतुसान्निध्यात्कृतं बद्धनिधत्तादिरूपेणोपनिबद्धं यदुष्कृतं प्राणातिपाताद्यष्टादशपापस्थानरूपं तद् गर्हन् 'हा दुष्टमिदं कर्म मया कृतम्' इति सानुतापं निरन्तरमनुस्मरन् । तथा सुकृतं स्वकृतमेवाश्रवद्वारसंवरणलक्षणमनुमोदयन् सानन्दमन्तर्वि. भावयन् , त्वच्चरणौ-त्वत्क्रमौ शरणं यामि-प्रपद्ये । किं विशिष्टः ?, शरणोज्झितो भावशत्रुसंत्रासादशरणः ॥ १॥
दुष्कृतगर्हामेवाहमनोवाकायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनःक्रिययान्वितम्॥२॥
हे भगवन् ! करवा, कराववा अने अनुमोदवावडे मनवचनकायाथी थयेला पापने विषे जे दुष्कृत लाग्युं होय, ते आपना प्रभाववडे फरी वार नहीं करवानी प्रतिज्ञापूर्वक मारुं ते दुष्कृत मिथ्या थाओ. (२)
अव० मनो०-हे वीतराग ! मनोवचनकायभवे पापे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे करण कारणानुमोदनैकगुणभूतैर्म-मम दुष्कृतं मिथ्याऽकृतमिव भूयाद्भवतु । कथंभूतं मिथ्यादुष्कृतम् ?, अन्वितं-सहितम् , कयाऽपुनः क्रिययाऽपुन:करणेन ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org