________________
२१४
[ श्रीवीतरागस्तोत्रे
णिकः, न च मत्तो मत्सकाशादप्यपरः कोऽपि भवद्विधानां कृपापात्रं दयास्थानम् । तस्मादेवं सति त्वदेकशरणे मयि किङ्करे तव सुस्वामिनो यत्कृत्यं यद्विधेयं तत्र कर्मणि त्वं कर्मठः-शूर एधि भव । यथा चाहमपि भवानिव भवभयानामभाजनं भवाभि तथा प्रसी. देतिभावः ॥९॥ इति श्रीवीतरागस्तोत्रे षोडशस्यात्मगस्तिवस्य पदयोजना।
एवं स्तुतिकृदात्मगस्तिवेन क्षीणतार्ति विज्ञप्य साम्प्रतं सर्वात्मना परमात्मानं शरणं प्रपित्सुः शरणस्तवमाह --- स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् । नाथ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥ __हेनाथ ! करेलां दुष्कृतनी गर्दी करतो, अने करेलां सुकृतनी अनुमोदना करतो, अन्यना शरणथी रहित एवो हं; आपना चरणोना शरणने अंगीकार करूं छं. (१)
अथ शरणप्रतिपत्तिमाहुः
अव० स्वकृतं०-हे नाथ !. अनन्तभवेष्वात्मना निष्पादितं दुरितं निन्दस्त्वदनुष्ठानादि वाऽनुमोदयन् अनुमन्वन् त्वदपरशरणरहितस्त्वत्पादौ शरणं यामि-श्रयामि ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org