________________
२१२
[ श्रीवीतरागस्तोत्रे
वि०-हे स्वामिन् ! नाहमनुत्साहहतः !, किन्तु पुरैव निखिलान्यपि सौगतादितीर्थानि भ्रान्तः-पर्यटितः, तेषु च मध्ये त्वमेवैकः संसारपारावारतारणक्षमं तीर्थ दृष्टः-साक्षात्कृतः । तत्तस्मादहं तवैवांह्रौ विलग्नस्त्वच्चलननलिनमूलमालम्बितस्तदेव हे नाथ ! मामस्मात् संसृतिपाथोनाथात् त्वरितं तारय तारय परमपदपरतटं च प्रापय । अत्यन्तार्तिख्यापनाय तारयेति द्विरुक्तिः ॥ ७ ॥
न चाहं सर्वथैवायोग्यस्त्वदनुग्रहस्य, यतःभवत्प्रसादेनैवाहमियती प्रापितो भुवम् । औदासीन्येन नेदानी, तव युक्तमुपेक्षितुम् ॥८॥
हे नाथ ! आपनी महेरबानीथी ज हुं आटली भूमिकाने-आपनी सेवानी योग्यताने पाम्यो छु, माटे हवे उदासीनपणावडे मारा तरफ उपेक्षा करवी आपने योग्य नथी. (८) । __ अव० भव०-हे वीतराग ! अहं त्वत्प्रसादेनैव तव प्रसत्तितयैवेयती त्वदुपास्तियोग्यां भुवं सुदशां प्रापितो नीतस्तत इदानीमधुनौदासीन्येन माध्यस्थ्येनोपेक्षितुमुपेक्षा कर्तु तव नोचितं-नोपेक्षणीयः सर्वथा ॥ ८॥
वि०-हे भगवन् ! अहं भवत्सम्बन्धिना प्रसादेनानुग्रहेणैव इयतीं त्वदुपास्तिस्तुतिविज्ञप्तियोग्यां भुवं सुदशां प्रापितः-समानीतोऽस्मि । तदिदानीमपि विश्वकवत्सलस्य तव औदासीन्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org