________________
षोडशः प्रकाशः ]
२११ वि०-हे त्रातर् ! भावारिविधुरितभव्याङ्गिवर्गपालक ! त्वयि त्रिभुवनजनपरित्राणप्रवीणपराक्रमे त्रातरि पुरः सत्यपि यन्मोहादिभिर्मलिम्लुचैः पाटच्चरैमैं-मम त्वयैव प्रसादितं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं हियते-बलाद्विलुप्यते । हा इति खेदे तदहं हत एव हताशः । युक्तं च हताशत्वं !, यतः प्रभोरसमक्षं यत् किमपि विलुप्यते तत्र किल स्वस्वामिनिवेदनेन प्रत्यानयिष्याम्यहमात्मीयं वस्त्विति भवत्येव प्रत्याशा, स्वामिसमक्षं तु गते वस्तुनि कौत. स्कृती प्रत्याशेति ॥ ६ ॥
ननु वीतरागतया यदि युष्मान् युष्मदाराध्योऽयमवधीरयति, तत्किमित्यनुत्साहहतैस्तीर्थान्तरोपास्तिन विधीयत इत्याशङ्कयाहभ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत्तवाङ्घौ विलग्नोऽस्मि, नाथ! तारय तारय॥७॥
हुँ घणा तीर्थोमां भटक्यो छु, परन्तु ते सर्वमां में आपने ज एक तारक तरीके जोया छे. ते कारणे हुं आपना ज चरणोने विषे वळग्यो छु, माटे हे नाथ ! आप कृपा करीने मने तारो, तारो. (७)
अव० भ्रान्त-हे वीतराग! अहं तीर्थानि लौकिकलोकोत्तराणि भ्रान्तो गतस्तेषु त्वमेव एको मया संसारतारणक्षमो ज्ञातस्ततस्तव पादे विलग्नोऽहमस्मि। हे नाथ अतः कारणात् त्वं मां तारय तारय संसारसागरानिस्तारय निस्तारयौत्सुक्यतो वीप्साऽत्र ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org