________________
२१०
[ श्रीवीतरागस्तोत्रे
वि०-हे समग्रशुभशक्तिसनाथ ! नाथ ! तव सम्बधिनी सम्-सम्यग्रूपां बोधि ज्ञानश्रद्धानलक्षणां पुण्ययोगात्प्राप्य-लब्ध्वापि मनोवाकायकर्मजैमनोवचनतनुसमुद्भवैः पापानुबन्धिभिर्दुष्टचेष्टितैमया खयमेव स्वशिरसि अनलः प्रज्वालितः । किमुक्तं भवति ?, यथा-कोऽपि केनापि कृपालुना ज्वालितादालयादाकृष्टोऽप्यात्मवैरितया पुनः स्वमूर्ध्नि दहनं दीपयति तथा मयापि भवशतसहस्रदुर्लभां निर्वृत्तिपुरीप्रस्थाननिरुपहतवर्जिनी तव बोधि लब्ध्वापि निरर्गलदुष्टयोगविचेष्टितैर्दुर्गतिदुःखान्यात्मन्युपनयता शिरस्यनल इव ज्वालितः, तत्त्वतस्त्वेतदपि भावारिविलसितमेव ॥ ५ ॥
तदेव पुनर्दर्शयतित्वय्यपि त्रातरि त्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे हियते, हताशो हा! हतोऽस्मि तत्॥६॥ __ हे रक्षक ! आप रक्षण करनार विद्यमान छतां मोहादि चोरो मारां ज्ञान, दर्शन अने चारित्ररूप त्रण रत्नो हरण करी जाय छे, तेथी हा! हताश एवो हुं हणाई गयो छु ! (६) ____ अव त्वय्य-हे त्रातर ! त्वय्यपि त्रैलोक्यरक्षाक्षमे त्रायके सति यन्मम ज्ञानदर्शनचारित्रत्रयं मोहादिचौरैर्हियतेमुष्यते तदहं हा इति खेदे हताशः प्राणाधिकरत्नत्रयहरणात् हतोऽस्मि-व्यापादितोऽस्मि ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org