________________
षोडशः प्रकाशः ]
२०९
निबद्धरतिस्तिष्ठामि, क्षणं च दुरन्ततद्विपाकानुचिन्तनेन मुक्तो मुक्तरूप इव भवामि, क्षणं च केनापि कचिद्वान्छिते स्खलिताभिलाषस्तं प्रति क्रुद्धः क्रोधवानस्मि, क्षणं च क्रोधफलोपभोगेन विलीनौदयिकभावो भावयन् वस्तुतत्त्वं क्षमी - क्षमावान् भवामि । एवं मोहादिभिः क्रीडया मनो विनोदार्थमर्थीवेश्वरैरहं कपिचापलं - कापेयं कारितः, यथा सहजनिजचापलेन क्षणे क्षणे कपिर्विसदृशचेष्टो भवति तथाहमपि मोहादिभिरिति ।
यदि वा मुधैव मोहादयो मयोपालभ्यन्ते, यतः स्वकृतमेवेदं दुश्चेष्टितं इति दर्शयन्नाहप्राप्यापि तव सम्बोधिं मनोवाक्काय कर्मजैः । दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ॥५॥
हे नाथ ! आपनो धर्म पाम्या छतां मन वचन अने कायाना व्यापारोवडे उत्पन्न थयेली दुष्ट- चेष्टाओवडे, में मारा मस्तक पर खरेखर अनि सळगाव्यो छे. (५)
अव० प्राप्या० - हे नाथ ! तव सम्बोधिं धर्मविधिम् प्राप्यासाद्यापि मनोवचनकायव्यापारजातैर्दुराचारैया शिरसि - मस्तकेऽग्निरिव ज्वालितो दुर्गतिदुःखमुपार्जितमित्यर्थः ॥ ५ ॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org