________________
षोडशः प्रकाशः ]
२०७
प्रसरति, तस्य तन्निग्रहे किमपरमोपयिकम् ?, यस्य च परमवैराग्यप्रधानं जिनप्रवचनं परिशीलयतो रागावेगः स्फुरति स तदपरं तन्निग्रहोपायमपश्यन् भवत्येव विहताशः ॥ २ ॥
रागवैकृतमेव व्यनक्तिरागाहिगरलाघ्रातोऽकार्ष यत्कर्मवैशसम् । तद्वक्तुमप्यशक्तोऽस्मि, धिग्मे प्रच्छन्नपापताम् ॥३॥ - हे नाथ ! रागरूपी सर्पना विषथी व्याप्त थयेला में जे अयोग्य कार्यो काँ छे, ते कहेवाने माटे पण हुं समर्थ नथी, माटे मारा प्रच्छन्न पापीपणाने धिक्कार हो! (३)
अव० रागा०-हे वीतराग ! रागभुजङ्गविषाक्रान्तोऽहं यद्वैशसमसमञ्जसं कर्म अकार्ष-कृतवान् तत् तवाग्रे वक्तुमपि न शक्नोमि । अतो मे मम प्रच्छन्नपापतां प्रच्छन्नाकत्यतां धिगस्तु ॥ ३ ॥
वि०- हे स्वामिन् ! अहं रागाहिगरलाघ्रातो रागोरगविषावेगास्कन्दितो यद्वैशसमसमञ्जसं कर्मव्यापारमकार्षमकरवम् तदधुना तेनैव स्वकर्मणा लजितस्तवापि विश्ववत्सलस्य पुरतो वक्तुं प्रकाशयितुं न शक्तोऽस्मि, ततो धिगिति निन्दायाम् , मे-मम इमां प्रच्छन्नपापतां परोक्षदुष्कृतकारितां धिक्, युक्तश्चात्मनि धिक्कारः, यतः-कृत्वापि दुष्कृतं यदि सत्पात्रे प्रकाश्यते तदा तदुचितप्राय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org