________________
२०३
पञ्चदशः प्रकाशः] नमोऽस्तु, तेषामयं प्रत्यक्षलक्ष्योऽञ्जलि:-करयोजनम् , ता. न्वयं सेवामहे, यैस्तव शासनामृतैरात्मा निरन्तरमसिच्यत सुस्थीकृतः ॥ ७॥
वि०-हे भगवन् ! आस्तां तावत्तुभ्यं त्वच्छासनाय च, यावदगण्यपुण्योपचितेभ्यस्तेभ्योऽपि नमो नमस्कारोऽस्तु। तदा तेषामक्षीणभागधेयानामयमस्माभिरञ्जलिः सज्जितः । तथा प्रशस्यचरितांस्तानेव वयमुपास्महे । यैः किं ?, यैर्दुष्कर्मदावपावकप्रदीप्रः खात्मा त्वच्छासनामृतरसैस्त्वत्प्रवचनपीयूषपूरैरन्वहं प्रतिवासरमसिच्यत । तस्यैव संसृतिसन्तापनिर्वापणप्रवणत्वादिति ॥ ७ ॥
यदि वा त्वत्प्रवचनामृतप्लुतमनसः स्फुटचेतनास्ते तावन्नमस्या एव, किन्तुभुवे तस्यै नमो यस्यां, तव पादनखांशवः । चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् ? ॥८॥
हे नाथ ! ते भूमिने पण नमस्कार थाओ, के ज्यां आपना चरणोना नखोना किरणो चिरंकाल सुधी चूडामणिनी जेम शोभाने पामे छे; आथी अधिक अमे शुं कहीए ? (८)
अव० भुवे०-हे वीतराग । तस्यै भूमये नमोऽस्तु, यस्यां तव चरणनखकिरणानि चिरं चूडामणीयन्ते-शिरोमणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org