________________
[ श्रीवीतरागस्तोत्रे
गुणानुरागिभिर्मध्यस्थस्तावकैः स्तूयमानांस्त्वद्गुणानाकर्ण्य मत्सरवशादसत्प्रलापमुखरमुखा न भवन्ति । न चायं तेषामुपक्रोशः, किन्तु हितचिन्तनमेव । कथमिति चेत् ? अर्थान्तरमाह - शुभोदर्कायेत्यादि । पापेषु पापानुबन्धिकर्मसु व्यापारेषु प्रवर्त्तमानानां भवाभिनन्दिनां वैकल्यमिन्द्रियविकलतापि शुभोदर्काय-शुभफलाय जायते । इदमुक्तं भवति - ते विकलेन्द्रिया निरङ्कुश पापकर्मसु त्वन्निन्दा - दिषु प्रवर्त्तमानाः प्रचुरतरमशुभराशिं संचिन्वन्ति, विकलेन्द्रियास्तु 'स्वयं षण्ढो ब्रह्मचारी' इतिन्यायादसामर्थ्य प्रतिहतपापवृत्तयः स्वरूप-मात्रेणावतिष्ठन्ते तच्च तेषामायतौ हितमेवेति ॥ ६ ॥
"
२०२
एवं भगवन्मत्सरिणः प्रच्छाद्य तच्छासनरतानुपस्तौति - तेभ्यो नमोऽञ्जलिरयं, तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्येरात्माऽसिच्यतान्वहम् ॥७॥
हे नाथ आपना शासनरूप अमृत रसबडे जेओए पोताना आत्माने हमेशां सिंच्यो छे, तेओने अमारो नमस्कार थाओ, तेओने अमे बे हाथ जोडीए छीए; अने तेओनी अमे उपासना करीए छीए. (७)
अव० तेभ्यो - हे वीतराग ! तेभ्यः पुण्यवद्द्भ्यो
१ 'हितचिन्तनमेव' इत्यत आरभ्य 'प्रवर्तमानानां ' इतियावत् पाठः प्रथममुद्रित पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org