________________
२००
किश्च –
त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त ! हतात्मनाम् ॥५॥
हे नाथ ! खेदनी वात छे के जेओ आपना शासनने अन्य शासनोनी साथे तुल्य-सरखं माने छे, ते अज्ञानथी हणाएला लोकोने अमृत पण झेर समान छे. (५)
[ श्रीवीतरागस्तोत्रे
आजे केटलाक कीर्तिकामुक विद्वानो प्रभुना दर्शनने अने अन्य दर्शनोने समतानी कोटिमां मूकवानी धृष्टता करे छे. तेमने आचार्यश्रीनी आ टकोर अति सुंदर छे.
अव० त्वच्छा०-हे वीतराग ! तव शासनस्य ये दर्शनान्तरैः साम्यं मन्वते तेषामज्ञनोपहतानां हन्त इति खेदे पीयूषं हालाहलेन समानमेव ॥ ५ ॥
वि०- हे भुवनमहनीयशासन !, तव सम्बन्धिनः शासनस्य निर्वृतिपुरप्रस्थान घण्टापथायमानस्य त्वत्प्रवचनस्य शासनान्तरैर्दीर्घसंसृतिपथपाथेयप्रतिमैः कुतीर्थिकतीर्थैः समं साम्यं ये मन्यन्ते तेषां हतात्मनां विगर्हितजीवितानां मते विषेण सद्यः प्राणघातिना हालाहलेन पीयूषं - मृतसञ्जीवनममृतं तुल्यं समानम् । किमुक्तं भवति - किल यावन्मात्रं पीयूषविषयोरन्तरं तावत्त्वच्छासनकुशासनानामित्यहो तत्साम्यकृतां सुसंस्कृता मतिर्गुणागुणविचारे ! ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org