________________
१९८
[ श्रीवीतरागस्तोत्रे मेरोस्तृणता पयोधे!ष्पदता, तव च जगद्गुरोर्लघुता भवति । केवलमनात्मजैस्तैर्गुणमत्सरिभिरेवमेवात्माविडम्ब्यत इति || २ ॥
यथा च तवावज्ञातं दुरन्तदुरिताय तथा स्वच्छासनस्यापीति दर्शयन्नाहच्युतश्चिन्तामणिःपाणेस्तेषां लब्धासुधा मुधा। यैस्त्वच्छासनसर्वस्वमज्ञानै त्मसात्मकृतम् ॥३॥
जे अज्ञानीओए आपना शासननुं सर्वस्व (धन) पोताने आधीन नथी कर्यु, तेओना हाथमाथी चिन्तामणि रत्न सरी पडथु छ; अने तेओने प्राप्त थयेलु अप्राप्य-अमृत फोगट गयुं छे ! (३)
अव० च्युत०–तेषामभाग्यशेखराणां कराचिन्तारत्नं पतितम् , अमृतमपि प्राप्तं निरर्थकम् । यैस्ते तव शासनमेव सर्व(स्व)द्रव्यं नात्मसात्कृतमात्मायत्तं नाकारि ॥ ३॥
वि०-हे भगवन् ! यैस्त्वच्छासनमात्मसान्न कृतं तेषामिदमिदमभूत् , किं तदित्याह-तेषामभाविभद्राणां पाणेः-कराञ्चिन्तामणिमनश्चिन्तितार्थसार्थसङ्घटनपटुर्मणिश्युतो विघटितः, तथा अजरामरत्वहेतुः सुधा कुतोऽपि दैवालब्धाप्यनुपयोगेन मुधा वृथैव गता, यैस्तव सम्बन्धि शासनं प्रवचनमेव सर्वस्वं सारद्रव्यमुपनतमप्यात्मसादात्मायत्तं न कृतम् । अयमाशय:-'किल चिन्तामणि पीयूषत्वच्छा. सनान्यगण्यपुण्यप्रचयमन्तरेण न तावत्सम्पद्यन्ते, दैवादुपनतान्यपि ये सादरं न स्वीकुर्वन्ति, न तेभ्योऽप्यन्यो जगति जघन्य इति ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org