________________
पञ्चदशः प्रकाशः]
१९७
एवं च
मेरुस्तृणीकृतो मोहात्, पयोधिर्गोष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः, पाप्मभिस्त्वमपोदितः॥२॥ ___ हे नाथ ! मोटाथी पण मोटा अर्थात् इन्द्रादिकथी पण मोटा एवा आपनो जेओए अनादर कर्यो छे, तेओए अज्ञानथी मेरुने तृण समान मान्यो छे अने समुद्रने गायनी खरी जेटलो गण्यो छ, अर्थात् पोतानी मूर्खाइनुं प्रदर्शन कर्यु छे. (२)
अव० मेरु० हे वीतराग! यैर्मुखैस्त्वं गरिष्ठेभ्य इन्द्रा. दिभ्यो गरीयानपोदितो नाहतः । तैमरुः स्वर्णाचलस्तृणीकृतस्तृणलेख्ये कृतः, मोहादज्ञानात् समुद्रो गोष्पदवद् अवगणितः ॥ २ ॥
वि०-हे स्वामिन् ! यैस्त्वमपोदितस्तैरिदमिदमकारि । किं तदित्याह-मेरुयोजनशतसहस्रोच्छ्रायः सकलकल्याणमयमूतिर्मणिसानुः सुरभूधरस्तृणीकृतस्तृणगणनया मोहाद् दृष्टः । तथा पयोधिर्योजनशतसहस्रविस्तारो रत्नाकरः समुच्छलदतुच्छकल्लोलकूटकलकलवाचालितरोदोऽन्तरालः सलिलनिधिरपि गोष्पदतुलया कलितः । यैः पाप्मभिः पापपटलविलीनचेतोभिः गरिष्ठेभ्यः सुरासुरनरनायकेभ्योऽपि गुणाधिकतया गरिष्ठो गरीयांस्त्वमप्यपोदितः पृथग्जनवदवज्ञया दृष्टः । किमुक्तं भवति-किल न खलु तैर्नृपशुभिः कृता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org