________________
चतुर्दशः प्रकाशः |
१९३ ताः । इदं चित्रमाश्चर्यकारि तव चरित्रं के पर्यनुञ्जताम् , किमर्थमिदं स्वामी करोतीति प्रष्टुमप्युत्सहन्ताम् । न केऽपीत्यर्थः ॥६॥
वि०-हे स्वामिन् ! त्वया हिंसका दुर्धरक्रोधोवधबुद्धयोऽपि परमकारुणिकेनोपकारिण इवोपकृताः शान्तेऽध्वनि सञ्चारिताः, यथा भगवता श्रीवर्धमानस्वामिना शूलपाणिचण्डकौशिकप्रभृतयः, तथा आश्रिता निर्निक्तभक्तिव्यक्तिजुषः सततं च चरणसरोजसेवाहेवाकिनोऽप्यपरिचितेनेव त्वयोपेक्षिता औदासीन्येन वीक्षिताः, यथा तेनैव स्वामिना मसात्मजनिसृष्टप्रलयानलप्रतिमतेजःपुअजाज्वल्यमानतनू सर्वानुभूतिसुनक्षत्रमुनी । तदिदमेवंविधं चित्रमाश्चर्यचर्याकरमलौकिकं तव चरित्रम् , के वा कृतधियोऽपि पर्यनुयुअताम् । किमर्थमिदमेवं स्वामी करोतीति प्रष्टुमप्युत्सहन्तामित्यहो तवाद्भुता वीतरागतासहचरिता समतेति ॥ ६ ॥
न च निन्दास्तुतितिरस्कारपुरस्कारेवेव तवौदासीन्यम् , किन्तु स्वात्मन्यपीत्युपदर्शयन्नाहतथा समाधौ परमे, त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति,यथा न प्रतिपन्नवान्॥७
आपे आपना आत्माने परम समाधिने विषे ते प्रकारे स्थापन करी दीधो छ के, जेथी हं सुखी छु के नथी ?, अथवा हुं दुःखी छु के नथी ?; तेनुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org