________________
१९२
[ श्रीवीतरागस्तोत्रे लकादौ अपकारिणि उपसर्गकर्तरि भवान् रक्तः सन्मार्गप्राप. णेन, अहो इत्याश्चर्ये तव सर्व लोकाप्रसिद्धम् ।। ५ ।।
वि०-हे लोकोत्तरचरित्रोद्भासित !, भगवन् !, परे योगरहस्य. विश्रान्तिशून्याः कुतीर्थिनः परेऽन्यस्मिन्नुपकारपरे प्रवर्तितोपकारे। प्यधिकाधिकोपकृतिस्पृहया, तथा तेन प्रकारेण, न रज्यन्ते-न प्रीतिमुद्वहन्ति, यथाऽपकारिणि सङ्घटितदुर्गोपसर्गेऽपि-अहो साधु कर्मक्षयप्रवृत्तस्य ममायमनाहूतसहायः संपन्न इति-परेऽन्यस्मिन् भवान् प्रीतिमुद्वहति; अहो इति विस्मये । तदेवं यद्यत्तव चरित्रमनुस्मयते तत्तत्सर्वमलौकिकं लोकोत्तरमेवेति ॥५॥
पुनर्भगवतो योगसमृद्धि साम्यमुत्कर्षयन्नाहहिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः ।
इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥६॥ __ हे वीतराग ! चंडकौशिकादि हिंसको उपर आपे उपकार कर्यो छे, अने सर्वानुभूति तथा सुनक्षत्रमुनि आदि आश्रितोनी आपे उपेक्षा करी छे. आपना आ विचित्र-चरित्रनी सामे प्रश्न पण कोण उठावी शके तेम छे ? (६) ___ अव० हिंसका०-हे वीतराग! हिंसकाः चण्डकोशिकादय उपकृताः सुगतिप्रापणेन त्वया, आश्रिताः सर्वानुभृतिसुनक्षत्रादयोऽपि उपेक्षितास्त्वया, ऐहिकापद्भ्यो न रक्षि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org