________________
चतुर्दशः प्रकाशः ]
१९१ जन्मावध्यदृष्टेऽपि सात्म्यम् , हे स्वामिन् ! इदं पूर्वोक्तं तव चरितमलौकिकं लोकाविषयम् ॥ ४ ॥
वि०-हे स्वामिन् ! तवेदमप्यलौकिकम् , किमित्याह-यद्विषयेषु शब्दादिष्वुत्तमेषूपनतेष्वपि निसर्गत एव विरागः, यदि पुनः पूर्वमपरिचितास्ते भविष्यन्तीत्याह-चिरं सहचरेष्वपि चिरमनादिभववासात्प्रभृति सहचरेषु प्रतिभवोपलालितेष्वपि विरक्तिर्भवहेतुत्वातेषां योगे चादृष्टे पूर्वमपरिचिते सद्यः सङ्घटितेऽपि सात्म्यमेकीभावस्तस्यैव मोक्षाङ्गत्वादित्येतदपि तवालौकिकं लोकोत्तरमिति ॥४॥
तथा भगवतः केवलोत्पत्तेरनन्तरं परिपक्रिमयोगफलस्य समुचितैव समशत्रुमित्रता, किन्तु छद्मस्थस्य परिपच्यमानयोगफलस्यापि लोकोत्तरैव समतेत्युपदर्शयन्नाहतथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् ॥५॥
उपकार करवामां तत्पर एवा पोताना भक्तो उपर अन्य देवो तेटला खुशी थता नथी, जेटला आप आपना उपर अपकार करनारा कमठ-गोशालादि प्राणीओ उपर पण खुशी थाओ छो. अहो! आपनुं सर्व अलौकिक छे ! (५) ___ अव० तथा०-हे वीतराग ! परे परतीथिका उपकारकर्तरि सेवके (तथा) न रज्यन्ते-स्निह्यन्ति यथा कमठगोशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org