________________
१९०
[ श्रीवीतरागस्तोत्रे कोऽर्थः?; आसनादिवाह्यविस्तरं विनैव तव परमज्ञानवैराग्या. दिरूपो योगः सहज एव ॥ ३ ॥
वि०-हे योगसागरपारीण !, भगवन् !; येयं योगशास्त्रादिषु योगस्याष्टाङ्गता-यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान; समाधि लक्षणा श्रूयते सापि निपुणं निरूप्यमाणा प्रपञ्च इव प्रक्रियागौरवमिव प्रतिभाति । किमित्याह ?, कथमन्यथा, अन्यथा प्रपञ्चाभावे, एष योगस्तव कथं सात्म्यं शैलेशीमुपेयिवान् । कुतः प्रभृतीत्याह ?, आबालभावतः आशैशवात् । अयमाशयः-भगवतो हि गर्भावतारात्प्रभृति ज्ञानत्रयधरस्य सहचर एव योगः, या चेयमष्टाङ्गता सा सामान्ययोगिजनापेक्षया, जगन्नाथस्तु योगिनाथः ततस्तस्य सात्म्यमेव योगस्येति न किञ्चिदसङ्गतम् ।। ३ ॥
न च योगप्राप्तिक्रम एव तवालौकिकः किन्त्विदमपीत्याहविषयेषु विरागस्ते, चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि,स्वामिन्निदमलौकिकम् ॥४॥
घणा कालना परिचित एवा पण विषयो उपर आपने वैराग्य छे, अने कदी पण नहि देखेला एवा योगने विषे एकपणुं-तन्मयपणुं छे !; हे स्वामिन् ! आपन आ चरित्र के अलौकिक छे ? (४) ... अव० विष०-हे वीतराग ! ते तव चिरमनन्तकालं यावत्परिचितेष्वषि शब्दादिषु विरागोऽनासङ्गोऽस्ति । योगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org