________________
चतुर्दशः प्रकाशः ]
वि०-हे जगच्छरण्य ! त्वं मयि प्रसीद, किं विशिष्टस्त्वं :, फलमात्रतनुः फलमात्रा तनुर्यस्य स तथा, किल सङ्गत्यागदुस्तपतपोविधानकर्मनिर्मूलनकेवलोत्पादतीर्थप्रवर्तनादीनां सिद्धत्वमेव फलम् , साम्प्रतं च त्वं फलमात्रतनुः केवलज्ञानदर्शनानन्दवीर्यात्मा, अहं तु फलरूपस्य तवानुध्याने वन्ध्यो विफलप्रयत्नः 'अनुध्यानं हि दृष्टश्रुतानुभूतस्यैव वस्तुनो भवति' त्वं तु निरञ्जनपदस्थः परमात्मस्वरूपः सर्वथैवाविषयो दर्शनादीनाम् , अतः किङ्कर्त्तव्यतायां जडे अप्राप्तोपाये, मयि यत्कृत्यविधौ यन्मया विधेयं तस्मिन्विधौ प्रकारे प्रसीद । किमुक्तं भवति ?, 'अहं तावदवधीरितापरविधेयस्त्वदनुध्यान एव निलीनमानसः, त्वं तु फलमानतनुः, फलं च सिद्धत्वम् , तच्च मनोऽनुध्यानस्यागोचरम् , अतस्तथा कथमपि प्रसीद यथा फलमात्रतनुं त्वामहमालोकयामि, तच्च केवलिन एव सुलभम् , केवलं च कर्मक्षयायत्तम् , तस्मात्तथा सानुग्रहो भव यथा सकलकर्मजालमहमपि त्वमिव लीलयोन्मूलयामीति भावः ॥८॥ इति श्रीवीतरागस्तोत्रे त्रयोदशस्य हेतुनिरासस्तवस्य पदयोजना ।
अधुना यन्मूलेयमर्हतां जगति विख्यातिस्तमेव योगं योगशुद्धिस्तवेन स्तुतिकृदुपस्तौति
मनोवचःकायचेष्टाः, कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता, मनःशल्यं वियोजितम् ॥१॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org