________________
૨૮૪
[ श्रीवीतरागस्तोत्रे
एवमात्मानं स्वामिनः स्वाधीनं विधाय किञ्चिदुचितं प्रार्थयन्नाह
फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान्। प्रसीद यत्कृत्यविधौ, किङ्कर्तव्यजडे मयि ॥८॥
हे नाथ ! आप सिद्धत्वस्वरुप फळ मात्र शरीरवाळा छो. हुं ज्ञानादिनुं फळ जे सिद्धत्व तेना यथावस्थित स्मरणथी पण रहित र्छ, माटे मारे शुं करवू ?, ए बाबतमां जड-मूढ बनेला मारा उपर कृपा करीने करवा लायक विधि बताववा कृपा करो. (८)
अव० फला०-हे वीतराग ! अहं फलानुध्यानवन्ध्यः, ज्ञानादीनां फलं सिद्धत्वम् , तस्यानुध्यानं यथावस्थिततया स्मरणम् , तस्मिन्वन्ध्योऽशक्तोऽस्मि, भवान् फलमात्रतनुः सिद्धत्वमात्ररूपोऽसि, न चान्या तव कापि तनुरस्ति, सिद्धत्वात् , अतो मयि किं कर्त्तव्यं जडे, किं कर्तव्यं मयेति व्यामूढे सति कथं ध्येयो देवः १, यत्कृत्यविधौ यन्मया विधेयं तस्मिन्विधौ प्रकारे प्रसीद । कोऽर्थः ?, तथा प्रसाद कुरु यथाऽहमपि त्वमिव कर्मजालमुन्मूलयामीति भावः । अत्र सर्वत्र विरोधालङ्कारः ॥ ८ ॥
इति त्रयोदशप्रकाशस्यावचूर्णिः । १ 'सिद्धत्व' इत्यत आरभ्य 'तनुरस्ति' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org