________________
त्रयोदशः प्रकाशः ] महेशायातिसमृद्धाय पक्षे रुद्राय, अगदाय नीरोगाय पक्षे गदानामशस्त्ररहिताय, नरकच्छिदे पक्षे विष्णवे, रजोगुणरहिताय ब्रह्मणे पक्षे ज्ञानस्वरूपाय ॥ ४ ॥
वि०-एवंविधाय तुभ्यं नमोऽस्तु, किं विशिष्टाय ? अभवाय महेशाय, अमूनि च षडपि पदानि परस्परविरुद्धानीव । यः किल महेशस्त्र्यम्बकः स कथमभवः ?, तस्य भवशब्दाभिधेयत्वात् , भगवांस्तु भवावतारकारणभूतानां कर्मणामात्यन्तिकक्षयेणाभवः, तथा परमार्हन्त्यपरमैश्वर्यसमुपेतत्वेन च महेशस्तस्मै । तथा अगदाय नरकच्छिदे, यः किल नरकच्छिन्नारायणः स कथमगदः ?, गदाधरत्वात्तम्य, भगवांस्तु सहजातिशयमहिम्नैव जन्मनः प्रभृति अगदो नीरुग्देहः, तथा धर्मतीर्थप्रवर्तनेन भव्याङ्गिनां नरकच्छेदी च, तस्मै । तथा अराजसाय ब्रह्मणे, यः किल ब्रह्मा विधिः स कथमराजसः ?, किल रजोगुणजुष्ट एव परमेष्ठी सृष्टिं घटयति, स्वामी तु कर्मरजोऽपगमादराजसः, परमे च ब्रह्मणि लयमुपगतत्वाद् ब्रह्मा तस्मै । एवंविधाय हरिहरब्रह्मभ्यो व्यतिरिक्ताय । अत एव कस्मैचित् छद्मस्थानामगोचराय परमात्मने भगवते नमोऽस्त्विति ।
पञ्चम्येकवचनान्तानि विशेषणान्याहअनुक्षितफलोदग्रादनिपातगरीयसः। असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥
सर्व वृक्षो जलसिंचन करवाथी ज पोताना काळे फळने आपे छे, पडवाथी ज मोटा भारवाळा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org