SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः प्रकाशः ] १७७ अयमेव (१) त्वया काममत्यर्थं कुटिला :- अतिवत्राः कर्मकण्टका अकुट्यन्त मर्दिताः || ३ || वि०- हे जगदेकवीर !, त्वया कर्मकण्टका अकुट्यन्त । किं विशिष्टेन ? अचण्डवीरव्रतिना सुभटवृत्तिः सा विद्यते यस्य स तथा, यश्च वीरव्रती स कथमचण्डो भवति, त्वया त्वकोपनेनापि निर्व्याजवीरव्रतिना । पुनः किं विशिष्टेन ?, शमिना प्रशमामृतसि - विविक्तचेतसा । तथा समवर्त्तिना येश्च समवर्त्ती यमः किलानप - कृतोऽपि समस्तलोकान्तकः स कथं शमी ?, अथवा समवर्त्तिना समतृणमणिलेष्टुकाञ्चनेन । यश्चाचण्ड शमी, समदृष्टिश्च स कथं कथमपि कुट्टयति, त्वया त्वेवंविधेनापि कर्माणि ज्ञानावरणादीनि तान्येवारुन्तुदत्वेन कण्टका इव कण्टकास्ते काममत्यर्थम कुट्यन्त स्वात्मप्रदेशेभ्यः पृथगक्रियन्त । यतः कुटिलाः कुटिलवासनोत्पादकाः । कण्टकाश्च ऋजवोऽपि तावद्दर्मोच्याः किं पुनः कुटिला : ?, अतः स्थाने जगद्वीरेण स्वामिना अकुट्यन्तेति । चतुर्थ्येकवचनान्तानि विशेषणानि ब्रूतेअभवाय महेशायागैदाय नरकच्छिदे । अराजसाय ब्रह्मणेकस्मैचिद्भवते नमः ॥ ४ ॥ भव - महादेव नहिं छतां महेश्वर, गदा नहिं १ - 'यश्च' इत्यत आरभ्य 'समवर्त्तिना' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति । १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy