________________
१७६
[ श्रीवीतरागस्तोत्रे
उज्ज्वलं भवति, त्वां तु मृजां विनैव उज्वलवाक्पथमवदातवाक्सञ्चारम् । तथा धौतं प्रक्षालितमेव वस्त्रादि प्रायेणामलं भवति, त्वां तु अधौतामलशीलमप्रक्षालितनिर्मलस्वभावं श्रये। अयमाशयःभगवतो मानसं वचनं शीलं च यथाक्रममनक्तममार्जितमधौतमेव निसर्गतः स्निग्धमुज्ज्वलममलं चेति । एवं विधं त्वामहमान्तरारातित्रस्तः शरणं श्रये, यतः शरण्यं शरणे साधुमिति ।
तृतीयैकवचनान्तानि विशेषणान्याचष्टेअचण्डवीरबतिना शमिना समवर्तिना। त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥ __ क्रोध विनाज वीरव्रतवाळा-सुभटवृत्तिवाळा, प्रशमरूपी अमृतना योगे विवेकयुक्त चित्तवाला; तथा सर्व प्रत्ये समानभाव भयुं वर्तन करनारा एवा आपे कर्मरूपी कुटिलकंटकोने अत्यंत कूटी नांख्या छे. (३)
अव० अचण्ड०-हे वीतराग! चण्डत्वं-उद्धतत्वं विना वीरव्रतिना पराक्रमवता, शमिना अक्रोधेन, समवर्तिना
१ अस्य श्लोकस्यावचूणिर्हस्तलिखितप्रतिषु एतादृशी दृश्यते, तथापि प्रथममुद्रितपुस्तके सा कथममुद्रिता तन्न ज्ञायते-अस्या अव चूर्णः स्थाने प्रथममुद्रितपुस्तके यन्मुद्रितं तदक्षरशोऽत्रोध्रियते। (“अक्रोधा या सुभटता तद्वता इन्द्रियनोइन्द्रियविकारशमकेन शमप्रधानाचारपरायणेन, परीषहोपसर्ग. जयकारणनिर्ग्रन्थाचारचारिणा काममत्यन्तं, अपुनर्बन्धतया कुटिलाः वक्रतया . कण्टकवद्व्यथाभरविधायित्वात् कर्मकण्टका निरकाश्यन्त") ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org