________________
त्रयोदशः प्रकाशः ]
प्रायः पितृपितृव्यादिसंबन्धेन भवति, त्वं तु संबन्धमन्तरेणैव भुवनजनस्य बन्धुकृत्यकरणात् निर्बन्धनबान्धव इति ।
द्वितीयैकवचनान्तानि विशेषणान्याहअनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥
हे नाथ ! ममतारूपी चीकाशथी चोपडाया विनाज स्निग्ध मनवाळा, मार्जन कर्या विना ज उज्जवळ वाणीने उच्चारनारा तथा धोया विनाज निर्मळ शीलने धारण करनारा आप छो, माटे शरण करवा लायक आपनुं हुं शरण अंगीकार करूं छं. २
अव० अन०-अनक्तस्निग्धमनसं ममत्वस्नेहेनादिग्धं स्निग्धं मनो यस्य तम् । मृजामुद्योतनं विनोज्वलो वाक्पथो वाक्रसञ्चारो यस्य तम् , अधौतमक्षालितमेवामलं शीलमाचारो यस्य तम् , शरण्यं शरणाय हितम् , त्वां शरणमहं श्रये-गच्छामि ॥२॥
वि०-हे विश्वजनीन ! त्वामहं शरणं श्रये । किं विशिष्टं त्वाम् ?, अनक्तस्निग्धमनसं किल खेहाद्यभ्यञ्जनेन प्रायः स्निग्धत्वं भवति, त्वां तु ममत्वरूपस्नेहेन अनक्तमपि स्निग्धमनसं अरूक्षहृदयम् , श्रये इति सर्वत्र योज्यम् । तथा मार्जितमेव वस्तु प्रायेण
१-'स्निग्धं' इति पाठः प्रत्यन्तरे नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org