________________
१७४
[ श्रीवीतरागस्तोत्रे बांधव छो. आ श्लोकथी प्रथमादि साते विभक्तिनो उपयोग करेलो छे. (१)
सर्वत्र स्वेच्छावृत्तिं दर्शयन्ति प्रभो:
अव० अना०-हे वीतराग ! त्वं मुक्तिपथि(मुक्तिपथे) यातां जीवानामनाहूतसहायोऽनाकारित एव सखा, त्वमका० स्वार्थ विना हितकरः, त्वमाप्रथित एव साधुः परकार्यकरः, तथा सम्बन्धं स्वाजन्यं विना बान्धवोऽसि ॥१॥
वि०-अत्र च प्रकाशे प्रथमश्लोके सर्वाण्यपि भगवद्विशेषणानि प्रथमैकवचनान्तानि, द्वितीये द्वितीयैकवचनान्तानि, एवं यावत्सप्तमे सप्तम्येकवचनान्तानि । तत्र प्रथमं प्रथमैकवचनान्तान्याह-हे जगदीश !, त्वमेवास्मिन् जगत्येवंविधो नान्यः !; किं विधः? इत्याहअनाहूतसहायः किल यो यस्य यस्मिन्नर्थे सहायो भवति, स प्रायस्तेन सादरं समाहूत एव स्यात् , त्वं तु मुक्तिपथप्रस्थितानां भव्याङ्गिनां तदुपायरत्नत्रयोपदर्शनादनाहूत एव सहायः, तदियं निर्हेतुकापि भगवत्प्रवृत्तिः सर्वोत्तमफलैव । एवमन्यत्रापि योज्यम् । तथा त्वमस्य जगतः कारणं विनैव वत्सलः, कारणे हि वत्सलत्वं स्थापत्यादौ व्याघ्रादीनामपि भवत्येव, भगवांस्तु परमकारुणिकत्वे. नाकारणेऽपि वत्सलः । तथा यो हि यस्य व्यवसायाद्यर्थ मूलनी: प्रयच्छति, स तस्य साधुः, स च प्रायः सविनयमभ्यर्थित एव तस्य तां ददाति, त्वं तु भव्याङ्गिनां परमपदैश्वर्यनिबन्धनां ज्ञानादिमूल• नीवीमनभ्यर्थित एव ददानोऽनभ्यर्थितसाधुः । तथा बान्धवो हि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org