________________
१७३
त्रयोदशः प्रकाशः
वि०-एवं विधाय परमात्मने नमोऽस्तु, किं विशिष्टाय:, औदासीन्येत्यादि । यः किलोदासीनः स कथमुपकारीत्युक्तमेव, भगवतस्तु वीतरागत्वसहचरिते औदासीन्ये माध्यस्थ्ये सत्यपि, विश्वस्यापि विश्वस्य कृत्स्नस्यापि जगतो धर्मतीर्थप्रवर्त्तनेन उपकारिणे विहितभावोपकराय । तथा वैराग्यनिघ्नाय ज्ञानगर्भेण वैराग्येण सह समरसीभूताय, अत एव तायिने भवभयानसत्त्वपालकाय, तुभ्यं भगवते, परमात्मने-चिदानन्दस्वरूपाय, नमः-प्रणामोऽस्तु किमन्यप्रणमनेनेति भावः।
इति श्रीवीतरागस्तोत्रे द्वादशस्य वैराग्यस्तवस्य पदयोजना ।
इह हि सदेवदानवमानवस्य कृत्स्नस्यापि जगतः प्रवृत्तिः प्रायः सहेतुकैव, सैव च फलवती, विपरीता त्वनिष्टफला विफला वा। जगद्विलक्षणस्य भगवतः श्रीमदर्हतस्तु प्रवृत्तिः कियत्यपि निर्हेतुका, तथापि सर्वोत्तमफलवती । एतदेव स्तुतिकृद्धेतुनिरासस्तवेन प्रस्तावयन्नाहअनाहतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥
हे भगवन् ! मोक्षमार्गमां प्रयाण करनारा प्राणीओने आप बोलाव्या विनाज सहाय करनारा छो, अकारणवत्सल छो, प्रार्थना कर्या विनाज परनुं कार्य करनारा छो; तथा संबंध विनाज जगतना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org