________________
१७२
[ श्रीवीतरागस्तोत्रे अथैवमप्यभ्युपपद्यते तदा, परे त्वदितरे देवादयो दुःखगर्ने मोहगर्भे च वैराग्ये निष्ठिताः, तत्रेष्टवियोगानिष्टयोगादिदुःखहेतूपगमे यत् क्षणिकं वैराग्यं तत् दुःखगर्भम् , यच्च कुशासनप्रणीताध्यामलवश्रवणेन केषाञ्चिद्राज्यादिपरिजिहीर्षा यमनियमादिचिकीर्षा च भवति तदप्यसर्वज्ञोपज्ञत्वेन मुक्तेरहेतुत्वेन च मोहगर्भमज्ञानग्लपितमेव वैराग्यम् , यत्तु सद्भूतवस्तुतत्त्वोद्भावनसमुद्भूतमनित्यतादिशुभभावनानिरुपचितबलं सर्वसङ्गपरित्यागद्विगुणितोत्साहं त्रिभुवनलक्ष्मीसमागमेऽप्यक्षुब्धं ज्ञानगरं वैराग्यं तत् त्वय्येव भगवति श्रीवीतरागे एकायनतामेकीभावमुपगतम् , एकमेव वीतरागलक्षणमाश्रयमयते इति एकायनस्तस्य भाव एकायनता तां न पुनरन्येष्विति ।
औदासीन्येऽपि सततं विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय तायिने परमात्मने ॥ ८॥
उदासीनभावमा पण निरन्तर समस्त-विश्व उपर उपकार करनार, वैराग्यमां तत्पर, सर्वना रक्षक अने परब्रह्म स्वरूप एवा परमात्माने अमारो नमस्कार थाओ. (८)
अव० औदा०-हे वीतराग ! माध्यस्थ्येऽपि नित्यं निखिलजगदुपकत्रे तायिने-पालकाय, परमात्मने-परमब्रह्मस्वरूपाय वैराग्यतत्पराय, तुभ्यं नमोऽस्तु ॥८॥
इति द्वादशप्रकाशस्यावचूर्णिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org