________________
१६८
[ श्रीवीतरागस्तोत्रे न्द्रश्रियोरुपभोगावसरेऽपि भगवान्नैवं चिन्तयति, यथा-साध्वियमुपनता श्रीः, यदि कथमपि न वियुज्यते तदा सुन्दरं स्यादिति, केवलमिदमेव विभावयति-'यत्तावदुपस्थितं ममेदं भोग्यफलं कर्म, न च वेदनमन्तरेणेदं क्षीयत इति रुक्प्रतिकारधिया अनासक्त एव मुते । तथा च पठन्ति-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यम् , कृतं कर्म शुभाशुभम् ॥१॥” इति, अतस्तदाप्यस्त्येव तत्त्वतस्त्रिजगद्गुरोर्वैराग्यमिति । नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥५॥ __ हे नाथ ! जो के आप कामभोगोथी सदा विरक्त छो, तो पण ज्यारे आप रत्नत्रयीरूप योगने स्वीकारो छो, त्यारे 'आ विषयोथी सयु' एवो विशाळ-वैराग्य आपनामां होय छे. आ श्लोकमां भगवाननी दीक्षा थया बाद छद्मस्थ दशाना वैराग्यनुं वर्णन छे. (५)
अव० नित्यं-हे वीतराग! त्वं नित्यं दीक्षाग्रहणात्प्रागपि कामेभ्यो विषयेभ्यो विरक्तो यदा योग ज्ञानदर्शनचारित्ररूपम् , प्रपद्यसे-गृह्णासि, तदा ते तव प्राज्यं प्रभृतं वैराग्यमस्ति-एभिर्विषयैर्भुक्तभोग्यत्वादलं-मृतमिति प्रकारेण।।५।।
.
१ हिरधिकोऽत्र प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org