________________
द्वादशः प्रकाशः ]
वि०- यदा च त्वं भोग्यफलकर्मणः क्षये, नित्यमेकान्ततः कामेभ्यः पञ्चप्रकारेभ्यो विरक्तो विरागपमुपगतः सन्, योग - ज्ञानदर्शनचारित्ररूपं प्रपद्यसे - स्वीकरोषि तदाप्येभिरत्यन्तदुरन्तविपाकैः कामभोगैरलं पर्याप्तमिति विभावयतस्तवास्त्येव प्रराज्यमभङ्गुरं वैराग्यमिति । किञ्च
सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नासि विरागवान् ? ॥ ६॥
१६९
ज्यारे आप सुखने विषे, दुःखने विषे, संसारने विषे अने मोक्षने विषे उदासीन - मध्यस्थभाव धारण करो छो, त्यारे पण आपने वैराग्यज होय छे, तेथी आप क्यां अने क्यारे विरागवाळा नथी ?, अर्थात् सर्वत्र विरागीज छो. आ श्लोकमां भगवाननी कैवल्यदशा तथा सिद्धदशाना वैराग्यनुं वर्णन छे. (६)
अव० सुखे - सुखे दुःखे भवे मोक्षे यदा त्वमौदासीन्यं माध्यस्थ्य मीशिषे - करोषि तदापि तव वैराग्यमेवास्तीति हैतोस्त्वं कुत्र विरागवान्नासि १, अपि तु सर्वत्र ॥ ६॥
वि०- यदा च योगप्रतिपत्तेरनन्तरं क्षणे क्षणे विशुद्ध्यमानाध्यवसायः परिपाकोन्मुखे योगसमृद्धिफले सुखे - साते, दुःखे - असाते, भवे- संसारे, मोक्षे-महोदये; औदासीन्यमीशिषे सुखदुःखभवमोक्षेषु तथा वीतरागत्वस्वभावादेव समानमानसो भवसि तदा
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org