________________
द्वादशः प्रकाशः ] यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥४॥
हे नाथ ! ज्यारे आप पूर्वभवमां देवऋद्धिनो अने मनुष्यभवमा राज्यऋद्धिनो उपभोग करो छो, त्यारे पण ज्यां त्यां आपनी रति जणाय छे ते पण विरक्तिरूप होय छे; कारण के ते ते ऋद्धिने भोग वतां पण आप भोगफळवाळं कर्म विना भोगवे क्षय नहि पामे, एम विचारीने अनासक्तपणे ज भोगवो छो. आ श्लोकमां पूर्वभव अने राज्यावस्थाना वैराग्यनी दशानुं वर्णन छे. (४) ।
अव० यदा०-हे नाथ ! त्वया यदा सुरराज्यादिलक्ष्मीर्भुज्यते, नामेति कोमलामन्त्रणे, यत्र तत्र तव रतिः । कोऽर्थः ?, यत्र यथैव स्थितस्तत्र तथैव रतिः समाधिस्तदापि ते तव विरक्तत्वम्-साध्वियं श्रीरुपनता (१) उपस्थितं कर्म ममेदं भोग विना न क्षीयत इत्यादिप्रकारेण ॥ ४ ॥
वि०-हे परमार्हन्त्यश्रीसनाथ !, नाथ !; तीर्थकृन्नामकर्मोपनिबन्धबन्धुरस्य नरभवस्यायुषि प्रक्षीणे तथाविधशुभसम्भारवशादुपनता मरुतां देवानां श्रीलक्ष्मीर्यदा त्वयोपभुज्यते, यदा च स्थितिक्षयात्ततच्युतेनार्हद्भवे भोग्यफलकर्मोपनीता नरेन्द्रश्रीश्च त्वयोपभुज्यते, तदाप्यस्ति तव विरक्तत्वम् , कथमित्याह-यत्र तत्र रतिर्नाम यत्रैव यथैव स्थितस्तत्रैव तथैव रतिः । किमुक्तं भवति-मरुन्नरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org