________________
१६६
[ श्रीवीतरागस्तोत्रे विवेकशाणैर्वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् ॥३॥
हे नाथ ! विवेकरूपी शराणवडे वैराग्यरूपी शस्त्रने आपे तेवा प्रकारे घसीने तीक्ष्ण कयु छे के जेथी मोक्षने विषे पण ते वैराग्यरूपी शस्त्रन पराक्रम साक्षात् अकुंठित-हणाया विनानु रघु. (३)
___ अव. विवे०-हे वीतराग! त्वया विवेकशाणेवैराग्यरूपं शस्त्रं तथा शातं-तीक्ष्णीकृतम् , “ शाणशब्दः पुल्लि. ङ्गेऽप्यस्ति शराण्यर्थे " यथा मोक्षे-महोदये पक्षेऽव्यापारेऽपि तदकु० अप्रतिहतसामर्थ्यमभूत् ॥ ३ ॥
वि०-हे समग्रोपायप्रवीण !, स्वामिन् !; त्वया विवेकलक्षणासु शाणासु, वैराग्यमेवोग्ररागनिग्रहे निरवग्रहं शस्त्रम् , तथा कथमपि शातं तीक्ष्णतामापादितम् , यथा तत्तावदास्तामन्यत्र किन्त्वत्यन्तदुर्भेदे साक्षान्मोक्षे महानन्देऽप्यकुण्ठितपराक्रममप्रतिहतसामर्थ्यमजायत । अथवान्यदपि शस्त्रं यत्केनापि निपुणेन शाणासु तीक्ष्णीकृतं भवति तदसकृन्मोक्षणेऽपि कुण्ठतां नापद्यत इति ।
साम्प्रतं भगवतः सर्वास्ववस्थासु वैराग्यमुद्भावयन्नाह
१ xxx 'शाणैः' इति पाठोऽवचूर्णिकारस्य सम्मत्वेन प्रतिभाति । किन्तु xxx 'शाणी' इति प्रथम-मुद्रित- पुस्तके ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org