________________
१६४
प्रभोरियत्सम्पत्प्राप्युपायं प्रकटयन्ति
अव० पट्ट० - हे वीतराग ! त्वं प्राग्भवे वैराग्यं पटुभिः - स्पष्टैः, अभ्यासादरैः - सेवनासात त्यैस्तथा आहरः स्वात्मन्यानीतवान् यथेह जन्मनि तीर्थङ्करभवे आजन्म जननावधि, तद्वैराग्यं सात्मीभावं सहजभावमागमत् प्रापत् ॥ १॥
वि०- हे अभङ्गुरवैराग्यसुभग 1, भगवन् !; त्वं पूर्व प्राग्भवेषु पटुभिरनाविलैरभ्यासादरैरासेवनसातत्यैस्तथा कथमपि वैराग्यं विरागताप्रकर्षमाहरः सम्यगात्मन्युपनीतवान् । यथेह जन्मन्यर्हद्भवल क्षणे तद्वैराग्यं सात्मीभावमागमत् शैलीमुपेयाय । अत एवाजन्म जन्मनः प्रभृति, ' यत्सहोत्पद्यते तदेव सात्म्यम् '; इदमुक्तं भवति - किल द्विविधो हि गुणः, औपाधिकः सहोत्थश्च तत्रौपाघिको यथा-तिलतैलजलादिषु परगुणाधानेन सौरभ्यमुद्भाव्यते, सहोत्थश्च यथा - मलयजस्य शैत्यं सौरभ्यं च । एवं भगवतोऽपि वैराग्यं न खल्वौपाधिकम्, किन्तु जन्मनः प्रभृति सहोत्थमेवेति सात्म्यमुपागमदित्युक्तम् ।
[ श्रीवीतरागस्तोत्रे
तथात्र जगति किलेयं व्यवहृतिर्यदिष्टविप्रयोगानिष्टसंयोगबान्धवधनादिभ्रंशादिषु दुःखहेतुषूपनतेषु वैराग्यमाविर्भवति सुखहेतुषु तु राग एवोज्जागरतामेति भगवतस्तु जगद्विलक्षणस्य विपरीतमिदम्, तथाहि
-
Jain Education International
दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् | मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥ २ ॥
For Private & Personal Use Only
•
www.jainelibrary.org